श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एवंभूतमपि परमेश्वरं नित्यशुद्धबुद्धमुक्तस्वभावं सर्वभूतात्मानं निर्गुणं संसारदोषबीजप्रदाहकारणं मां नाभिजानाति जगत् इति अनुक्रोशं दर्शयति भगवान्तच्च किंनिमित्तं जगतः अज्ञानमित्युच्यते
एवंभूतमपि परमेश्वरं नित्यशुद्धबुद्धमुक्तस्वभावं सर्वभूतात्मानं निर्गुणं संसारदोषबीजप्रदाहकारणं मां नाभिजानाति जगत् इति अनुक्रोशं दर्शयति भगवान्तच्च किंनिमित्तं जगतः अज्ञानमित्युच्यते

सति ईश्वरस्य स्वातन्त्र्ये नित्यशुद्धत्वादौ च, कुतो जगतः तदात्मकस्य संसारित्वम् ? इत्याशङ्क्य, तदज्ञानात् इत्याह -

एवंभूतमपीति ।

यदि अप्रपञ्चः अविक्रियश्च त्वम् , कस्मात् त्वाम् आत्मभूतं स्वयम्प्रकाशं सर्वो जनः तथा न जानाति ? इति मत्वा, शङ्कते -

तच्चेति ।

श्लोकेन उत्तरम् आह -

उच्यत इति ।

‘एभ्यः परम् ‘ इति अप्रपञ्चकत्वम् उच्यते, ‘अव्ययम् ‘ इति सर्वविक्रियाराहित्यम्

॥ १३ ॥