श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
दैवी ह्येषा गुणमयी मम माया दुरत्यया
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १४ ॥
कथं पुनः दैवीम् एतां त्रिगुणात्मिकां वैष्णवीं मायामतिक्रामति इत्युच्यते —

यथोक्तानादिसिद्धमायापारवश्यपरिवर्जनायोगात् जगतः न कदाचिदपि तत्त्वबोधसमुदयसम्भावना, इति आशङ्कते -

कथं पुनरिति ।

भगवदेकशरणतया तत्त्वज्ञानद्वारेण मायातिक्रमः सम्भवति, इति परिहरति -

उच्यत इति ।