श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कथं पुनः दैवीम् एतां त्रिगुणात्मिकां वैष्णवीं मायामतिक्रामति त्युच्यते

यथोक्तानादिसिद्धमायापारवश्यपरिवर्जनायोगात् जगतः न कदाचिदपि तत्त्वबोधसमुदयसम्भावना, इति आशङ्कते -

कथं पुनरिति ।

भगवदेकशरणतया तत्त्वज्ञानद्वारेण मायातिक्रमः सम्भवति, इति परिहरति -

उच्यत इति ।