श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यदि त्वां प्रपन्नाः मायामेतां तरन्ति, कस्मात् त्वामेव सर्वे प्रपद्यन्ते त्युच्यते

भगवन्निष्ठाया मायातिक्रमहेतुत्वे तदेकनिष्ठत्वमेव सर्वेषाम् उचितम् , इति पृच्छति -

यदीति ।

पापकारित्वेन अविवेकभूयस्तया हिंसाऽनृतादिभूयस्त्वात् भूयसां जन्तूनां न भगवन्निष्ठत्वसिद्धिः, इत्याह -

उच्यत इति ।

मौढ्यं पापकारित्वे हेतुः । अत एव निकर्षः । सम्मुषितमिव - तिरस्कृतम् , ज्ञानम् - स्वरूपचैतन्यम् येषाम् इति, ते तथा

॥ १५ ॥