चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ १६ ॥
चतुर्विधाः चतुःप्रकाराः भजन्ते सेवंते मां जनाः सुकृतिनः पुण्यकर्माणः हे अर्जुन । आर्तः आर्तिपरिगृहीतः तस्करव्याघ्ररोगादिना अभिभूतः आपन्नः, जिज्ञासुः भगवत्तत्त्वं ज्ञातुमिच्छति यः, अर्थार्थी धनकामः, ज्ञानी विष्णोः तत्त्वविच्च हे भरतर्षभ ॥ १६ ॥