श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन
आर्तो जिज्ञासुरर्थार्थी ज्ञानी भरतर्षभ ॥ १६ ॥
चतुर्विधाः चतुःप्रकाराः भजन्ते सेवंते मां जनाः सुकृतिनः पुण्यकर्माणः हे अर्जुनआर्तः आर्तिपरिगृहीतः तस्करव्याघ्ररोगादिना अभिभूतः आपन्नः, जिज्ञासुः भगवत्तत्त्वं ज्ञातुमिच्छति यः, अर्थार्थी धनकामः, ज्ञानी विष्णोः तत्त्वविच्च हे भरतर्षभ ॥ १६ ॥

ये त्वां भजन्ते, ते किं सर्वे मायां तरन्ति ? नैवम् , प्रार्थनावैचित्र्यात् इत्याह -

चतुर्विधा इति ।

आपन्नः तन्निवृत्तिम् इच्छन् , इति शेषः । तत्त्वविदिति । शाब्दज्ञानवान् आत्मतत्त्वसाक्षात्कारमात्रार्थी मुमुक्षुः, इत्यर्थः

॥ १६ ॥