श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते
प्रियो हि ज्ञानिनोऽत्यर्थमहं मम प्रियः ॥ १७ ॥
तेषां चतुर्णां मध्ये ज्ञानी तत्त्ववित् तत्ववित्त्वात् नित्ययुक्तः भवति एकभक्तिश्च, अन्यस्य भजनीयस्य अदर्शनात् ; अतः एकभक्तिः विशिष्यते विशेषम् आधिक्यम् आपद्यते, अतिरिच्यते इत्यर्थःप्रियो हि यस्मात् अहम् आत्मा ज्ञानिनः, अतः तस्य अहम् अत्यर्थं प्रियः ; प्रसिद्धं हि लोकेआत्मा प्रियो भवतिइतितस्मात् ज्ञानिनः आत्मत्वात् वासुदेवः प्रियो भवतीत्यर्थः ज्ञानी मम वासुदेवस्य आत्मैवेति मम अत्यर्थं प्रियः ॥ १७ ॥

चतुर्विधानां तेषां सुकृतिनां भगवदभिमुखानां तुल्यत्वम् आशङ्क्य, आह -

तेषामिति ।

तस्य विशिष्यमाणत्वे हेतुम् आह -

प्रियो हीति ।

नित्ययुक्तत्वं भगवति आत्मनि सदा समाहितचेतस्त्वम् । असारे संसारे भगवानेव सारः, ‘सोऽहमस्मि’ इति एकस्मिन् अद्वितीये स्वस्मात् अत्यन्तमभिन्ने भगवति भक्तिः स्नेहविशेषः अस्येति, एकभक्तिः । तस्य आधिक्ये हेतुं विवृणोति -

प्रियो हीत्यादिना ।

भगवतो ज्ञानिनश्च परस्परं प्रेमास्पदत्वे प्रसिद्धिं प्रमाणयति -

प्रसिद्धं हीति ।

आत्मनो ज्ञानिनं प्रति प्रियत्वेऽपि भगवतो वासुदेवस्य कथं तं प्रति प्रियत्वम् , इत्याशङ्क्य, आह -

तस्मादिति ।

अहं ज्ञानिनो निरुपाधिकप्रेमास्पदं, परमपुरुषार्थत्वेन आत्मत्वेन च गृहीतत्वात् , इत्यर्थः । ज्ञानिनोऽपि भगवन्तं प्रति प्रियत्वं प्रकटयति - स चेति

॥ १७ ॥