सर्वेषां भगवदभिमुखत्वात् उत्कर्षेऽपि ज्ञानिनि तदतिरेकम् अङ्गीकृत्य विशेषणम् , इ्त्याह -
उदारा इति ।
किं तत्र प्रमाणम् ? इत्याशङ्क्य, ईश्वरज्ञानम् , इत्याह -
मे मतमिति ।
ज्ञानी तु आत्मैव इत्यत्र हेतुम् आह -
आस्थित इति ।
सर्वशब्दस्य ज्ञानिव्यतिरिक्तविषयत्वम् आह -
त्रयोऽपीति ।
ज्ञानिव्यतिरिक्तानां भगवदभिमुखत्वेऽपि ज्ञानाभावापराधात् न भगवत्प्रीतिविषयता, इत्याशङ्क्य, आह -
न हीति ।
कस्तर्हि ज्ञानवति विशेषः । तत्र आह -
ज्ञानी त्विति ।
तमेव विशेषं प्रश्नपूर्वकं प्रकटयति -
तत्कस्मादित्यादिना ।
सर्वमात्मानं पश्यतोऽपि तस्य तव कथं यथोक्तो निश्चयः स्यात् ? इत्याशङ्क्य, आस्थित इत्येतत् व्याकरोति -
आरोढुमिति ।
आरोहे हेतुं सूचयति -
स ज्ञानीति ।
आरोढुं प्रवृत्तत्वमेव स्फुटयति -
मामेवेति
॥ १८ ॥