श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
उदाराः सर्व एवैते
ज्ञानी त्वात्मैव मे मतम्
आस्थितः हि युक्तात्मा
मामेवानुत्तमां गतिम् ॥ १८ ॥
उदाराः उत्कृष्टाः सर्व एव एते, त्रयोऽपि मम प्रिया एवेत्यर्थः हि कश्चित् मद्भक्तः मम वासुदेवस्य अप्रियः भवतिज्ञानी तु अत्यर्थं प्रियो भवतीति विशेषःतत् कस्मात् इत्यत आहज्ञानी तु आत्मैव अन्यो मत्तः इति मे मम मतं निश्चयःआस्थितः आरोढुं प्रवृत्तः सः ज्ञानी हि यस्मात्अहमेव भगवान् वासुदेवः अन्योऽस्मिइत्येवं युक्तात्मा समाहितचित्तः सन् मामेव परं ब्रह्म गन्तव्यम् अनुत्तमां गन्तुं प्रवृत्त इत्यर्थः ॥ १८ ॥

सर्वेषां भगवदभिमुखत्वात् उत्कर्षेऽपि ज्ञानिनि तदतिरेकम् अङ्गीकृत्य विशेषणम् , इ्त्याह -

उदारा इति ।

किं तत्र प्रमाणम् ? इत्याशङ्क्य, ईश्वरज्ञानम् , इत्याह -

मे मतमिति ।

ज्ञानी तु आत्मैव इत्यत्र हेतुम् आह -

आस्थित इति ।

सर्वशब्दस्य ज्ञानिव्यतिरिक्तविषयत्वम् आह -

त्रयोऽपीति ।

ज्ञानिव्यतिरिक्तानां भगवदभिमुखत्वेऽपि ज्ञानाभावापराधात् न भगवत्प्रीतिविषयता, इत्याशङ्क्य, आह -

न हीति ।

कस्तर्हि ज्ञानवति विशेषः । तत्र आह -

ज्ञानी त्विति ।

तमेव विशेषं प्रश्नपूर्वकं प्रकटयति -

तत्कस्मादित्यादिना ।

सर्वमात्मानं पश्यतोऽपि तस्य तव कथं यथोक्तो निश्चयः स्यात् ? इत्याशङ्क्य, आस्थित इत्येतत् व्याकरोति -

आरोढुमिति ।

आरोहे हेतुं सूचयति -

स ज्ञानीति ।

आरोढुं प्रवृत्तत्वमेव स्फुटयति -

मामेवेति

॥ १८ ॥