ज्ञानी चेत् अत्यर्थम् ईश्वरस्य प्रियो भवति, तर्हि विशेषणसामर्थ्यात् इतरेषाम् अप्रियत्वं प्राप्तम् , इति शङ्कते -
न तर्हीति ।
तेषां भगवन्तं प्रति प्रियत्वम् , अत्र विवक्षितम् , इत्याह -
नेति ।
अत्यर्थमिति विशेषणस्य तर्हि किं प्रयोजनम् ? इति पृच्छति -
किं तर्हीति ।