श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तर्हि आर्तादयः त्रयः वासुदेवस्य प्रियाः ? ; किं तर्हि ? —

ज्ञानी चेत् अत्यर्थम् ईश्वरस्य प्रियो भवति, तर्हि विशेषणसामर्थ्यात् इतरेषाम् अप्रियत्वं प्राप्तम् , इति शङ्कते -

न तर्हीति ।

तेषां भगवन्तं प्रति प्रियत्वम् , अत्र विवक्षितम् , इत्याह -

नेति ।

अत्यर्थमिति विशेषणस्य तर्हि किं प्रयोजनम् ? इति पृच्छति -

किं तर्हीति ।