श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तया श्रद्धया युक्तस्तस्या राधनमीहते
लभते ततः कामान्मयैव विहितान्हि तान् ॥ २२ ॥
तया मद्विहितया श्रद्धया युक्तः सन् तस्याः देवतातन्वाः राधनम् आराधनम् ईहते चेष्टतेलभते ततः तस्याः आराधितायाः देवतातन्वाः कामान् ईप्सितान् मयैव परमेश्वरेण सर्वज्ञेन कर्मफलविभागज्ञतया विहितान् निर्मितान् तान् , हि यस्मात् ते भगवता विहिताः कामाः तस्मात् तान् अवश्यं लभते इत्यर्थः । ‘हितान्इति पदच्छेदे हितत्वं कामानामुपचरितं कल्प्यम् ; हि कामा हिताः कस्यचित् ॥ २२ ॥

आराधितदेवताप्रसादात् फलप्राप्तौ किम् ईश्वरेण ? इत्याशङ्क्य, तस्य सर्वज्ञस्य कर्मफलविभागाभिज्ञस्य तत्तद्देवताधिष्ठातृत्वात् तस्यैव फलदातृत्वम् , इत्याह -

सर्वज्ञेनेति ।

‘एको बहूनां यो विदधाति कामान् ‘ इत्यादिश्रुतिम् आश्रित्य हि, तान् इति पदद्वयं व्याचष्टे -

यस्मादिति ।

हितान् इत्येकं पदम् इति पक्षं प्रत्याह -

हितानिति ।

मुख्यत्वसम्भवे किमिति औपचारिकत्वम् इत्याशङ्क्य, आह -

न हीति

॥ २२ ॥