श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ययैव पूर्वं प्रवृत्तः स्वभावतो यः यां देवतातनुं श्रद्धया अर्चितुम् इच्छति —

स्वभावतः - जन्मान्तरीयसंस्कारवशात् , इत्यर्थः । भगवद्विहितया स्थिरया श्रद्धया संस्काराधीनया देवताविशेषम् आराधयतोऽपि भगवदनुग्रहादेव फलप्राप्तिः, इत्याह -

यो यां इति ।

ईहते - निर्वर्तयति, इत्यर्थः ।