प्रकाशस्य तर्हि कादाचित्कत्वं भगवति प्राप्तम् , नेत्याह -
नित्येति ।
कथं तर्हि भगवन्तम् आगन्तुकप्रकाशं मन्यन्ते तत्र अबुद्धय इति उत्तरम् । तद्विवृणोति -
परमिति ।
परम् , अनुत्तमम् इति विशेषणद्वयं सोपाधिकनिरूपाधिकभावार्थम्
॥ २४ ॥