श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ २४ ॥
अव्यक्तम् अप्रकाशं व्यक्तिम् आपन्नं प्रकाशं गतम् इदानीं मन्यन्ते मां नित्यप्रसिद्धमीश्वरमपि सन्तम् अबुद्धयः अविवेकिनः परं भावं परमात्मस्वरूपम् अजानन्तः अविवेकिनः मम अव्ययं व्ययरहितम् अनुत्तमं निरतिशयं मदीयं भावमजानन्तः मन्यन्ते इत्यर्थः ॥ २४ ॥

प्रकाशस्य तर्हि कादाचित्कत्वं भगवति प्राप्तम् , नेत्याह -

नित्येति ।

कथं तर्हि भगवन्तम् आगन्तुकप्रकाशं मन्यन्ते तत्र अबुद्धय इति उत्तरम् । तद्विवृणोति -

परमिति ।

परम् , अनुत्तमम् इति विशेषणद्वयं सोपाधिकनिरूपाधिकभावार्थम्

॥ २४ ॥