श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
वेदाहं समतीतानि वर्तमानानि चार्जुन
भविष्याणि भूतानि मां तु वेद कश्चन ॥ २६ ॥
अहं तु वेद जाने समतीतानि समतिक्रान्तानि भूतानि, वर्तमानानि अर्जुन, भविष्याणि भूतानि वेद अहम्मां तु वेद कश्चन मद्भक्तं मच्छरणम् एकं मुक्त्वा ; मत्तत्त्ववेदनाभावादेव मां भजते ॥ २६ ॥

लोकस्य मायाप्रतिबद्धविज्ञानत्वादेव भगवदाभिमुख्यशून्यत्वम् , इत्याह -

मान्त्विति ।

कालत्रयपरिच्छिन्नसमस्तवस्तुपरिज्ञाने प्रतिबन्धो न ईश्वरस्य अस्ति, इति द्योतनार्थः तुशब्दः । ‘मां तु’ इति लोकस्य भगवत्तत्वविज्ञानप्रतिबन्धं द्योतयति ।

तर्हि त्वद्भक्तिः विफला, इत्याशङ्क्य, आह-

मद्भक्तमिति ।

तर्हि सर्वोऽपि त्वद्भक्तिद्वारा त्वां ज्ञास्यति, नेत्याह -

मत्तत्त्वेति ।

विवेकवतो मद्भजनम् , न तु विवेकशून्यस्य सर्वस्यापि, इत्यर्थः

॥ २६ ॥