श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत
सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ॥ २७ ॥
इच्छाद्वेषसमुत्थेन इच्छा च द्वेषश्च इच्छाद्वेषौ ताभ्यां समुत्तिष्ठतीति इच्छाद्वेषसमुत्थः तेन इच्छाद्वेषसमुत्थेन । केनेति विशेषापेक्षायामिदमाह — द्वन्द्वमोहेन द्वन्द्वनिमित्तः मोहः द्वन्द्वमोहः तेन । तावेव इच्छाद्वेषौ शीतोष्णवत् परस्परविरुद्धौ सुखदुःखतद्धेतुविषयौ यथाकालं सर्वभूतैः सम्बध्यमानौ द्वन्द्वशब्देन अभिधीयेते । यत्र यदा इच्छाद्वेषौ सुखदुःखतद्धेतुसम्प्राप्त्या लब्धात्मकौ भवतः, तदा तौ सर्वभूतानां प्रज्ञायाः स्ववशापादनद्वारेण परमार्थात्मतत्त्वविषयज्ञानोत्पत्तिप्रतिबन्धकारणं मोहं जनयतः । न हि इच्छाद्वेषदोषवशीकृतचित्तस्य यथाभूतार्थविषयज्ञानमुत्पद्यते बहिरपि ; किमु वक्तव्यं ताभ्यामाविष्टबुद्धेः संमूढस्य प्रत्यगात्मनि बहुप्रतिबन्धे ज्ञानं नोत्पद्यत इति । अतः तेन इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन, भारत भरतान्वयज, सर्वभूतानि संमोहितानि सन्ति संमोहं संमूढतां सर्गे जन्मनि, उत्पत्तिकाले इत्येतत् , यान्ति गच्छन्ति हे परन्तप । मोहवशान्येव सर्वभूतानि जायमानानि जायन्ते इत्यभिप्रायः । यतः एवम् , अतः तेन द्वन्द्वमोहेन प्रतिबद्धप्रज्ञानानि सर्वभूतानि संमोहितानि मामात्मभूतं न जानन्ति ; अत एव आत्मभावे मां न भजन्ते ॥ २७ ॥

विशेषम् आकाङ्क्षापूर्वकं निक्षिपति -

केनेति ।

विशेषापेक्षायामिति ।

द्वन्द्वशब्देन गृहीतयोरपि इच्छाद्वेषयोः ग्रहणं द्वन्द्वशब्दार्थोपलक्षणार्थम् , इत्यभिप्रेत्य आह -

तावेवेति ।

तयोः अपर्यायम् एकत्र अनुपपत्तिं गृहीत्वा विशिनष्टि-

यथाकालमिति ।

न च तयोः अनधिकरणं किञ्चिदपि भूतं संसारमण्डले सम्भवति, इत्याह -

सर्वभूतैरिति ।

तथापि कथं तयोः मोहहेतुत्वम्? इत्याशङ्क्य, आह -

तत्रेति ।

तयोः आश्रयः सप्तम्यर्थः ।

उक्तमेवार्थं कैमुतिकन्यायेन प्रपञ्चयति -

नहीति ।

पूर्वभागानुवादपूर्वकम् उत्तरभागेन फलितम् आह -

अत इति ।

प्रत्यगात्मनि अहङ्कारादिप्रतिबन्धप्रभावतः ज्ञानोत्पत्तेः असम्भवः अतश्शब्दार्थः ।

कुलप्रसूत्यभिमानेन स्वरूपशक्त्या च युक्तस्यैव यथोक्तप्रतिबन्ध - प्रतिविधानसामर्थ्यम् इति द्योतनार्थम् , भारत! परन्तप! इति सम्बोधनद्वयम् । तत्त्वज्ञानप्रतिबन्धे प्रकृतम् अवान्तरकारणम् उपसंहरति -

मोहेति ।

जायमानभूतानां मोहपरतन्त्रत्वे फलितम् आह -

यत इति ।