श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत
सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ॥ २७ ॥
इच्छाद्वेषसमुत्थेन इच्छा द्वेषश्च इच्छाद्वेषौ ताभ्यां समुत्तिष्ठतीति इच्छाद्वेषसमुत्थः तेन इच्छाद्वेषसमुत्थेनकेनेति विशेषापेक्षायामिदमाहद्वन्द्वमोहेन द्वन्द्वनिमित्तः मोहः द्वन्द्वमोहः तेनतावेव इच्छाद्वेषौ शीतोष्णवत् परस्परविरुद्धौ सुखदुःखतद्धेतुविषयौ यथाकालं सर्वभूतैः सम्बध्यमानौ द्वन्द्वशब्देन अभिधीयेतेयत्र यदा इच्छाद्वेषौ सुखदुःखतद्धेतुसम्प्राप्त्या लब्धात्मकौ भवतः, तदा तौ सर्वभूतानां प्रज्ञायाः स्ववशापादनद्वारेण परमार्थात्मतत्त्वविषयज्ञानोत्पत्तिप्रतिबन्धकारणं मोहं जनयतः हि इच्छाद्वेषदोषवशीकृतचित्तस्य यथाभूतार्थविषयज्ञानमुत्पद्यते बहिरपि ; किमु वक्तव्यं ताभ्यामाविष्टबुद्धेः संमूढस्य प्रत्यगात्मनि बहुप्रतिबन्धे ज्ञानं नोत्पद्यत इतिअतः तेन इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन, भारत भरतान्वयज, सर्वभूतानि संमोहितानि सन्ति संमोहं संमूढतां सर्गे जन्मनि, उत्पत्तिकाले इत्येतत् , यान्ति गच्छन्ति हे परन्तपमोहवशान्येव सर्वभूतानि जायमानानि जायन्ते इत्यभिप्रायःयतः एवम् , अतः तेन द्वन्द्वमोहेन प्रतिबद्धप्रज्ञानानि सर्वभूतानि संमोहितानि मामात्मभूतं जानन्ति ; अत एव आत्मभावे मां भजन्ते ॥ २७ ॥

विशेषम् आकाङ्क्षापूर्वकं निक्षिपति -

केनेति ।

विशेषापेक्षायामिति ।

द्वन्द्वशब्देन गृहीतयोरपि इच्छाद्वेषयोः ग्रहणं द्वन्द्वशब्दार्थोपलक्षणार्थम् , इत्यभिप्रेत्य आह -

तावेवेति ।

तयोः अपर्यायम् एकत्र अनुपपत्तिं गृहीत्वा विशिनष्टि-

यथाकालमिति ।

न च तयोः अनधिकरणं किञ्चिदपि भूतं संसारमण्डले सम्भवति, इत्याह -

सर्वभूतैरिति ।

तथापि कथं तयोः मोहहेतुत्वम्? इत्याशङ्क्य, आह -

तत्रेति ।

तयोः आश्रयः सप्तम्यर्थः ।

उक्तमेवार्थं कैमुतिकन्यायेन प्रपञ्चयति -

नहीति ।

पूर्वभागानुवादपूर्वकम् उत्तरभागेन फलितम् आह -

अत इति ।

प्रत्यगात्मनि अहङ्कारादिप्रतिबन्धप्रभावतः ज्ञानोत्पत्तेः असम्भवः अतश्शब्दार्थः ।

कुलप्रसूत्यभिमानेन स्वरूपशक्त्या च युक्तस्यैव यथोक्तप्रतिबन्ध - प्रतिविधानसामर्थ्यम् इति द्योतनार्थम् , भारत! परन्तप! इति सम्बोधनद्वयम् । तत्त्वज्ञानप्रतिबन्धे प्रकृतम् अवान्तरकारणम् उपसंहरति -

मोहेति ।

जायमानभूतानां मोहपरतन्त्रत्वे फलितम् आह -

यत इति ।