श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
केन पुनः मत्तत्त्ववेदनप्रतिबन्धेन प्रतिबद्धानि सन्ति जायमानानि सर्वभूतानि मां विदन्ति इत्यपेक्षायामिदमाह

भगवत्तत्त्वविज्ञानप्रतिबन्धकं मूलाज्ञानातिरिक्तं प्रश्नद्वारेण उदाहरति -

केनेत्यादिना ।

पुनश्शब्दात् प्रतिबन्धकान्तरविवक्षा गम्यते । अपरोक्षम् अवान्तरप्रतिबन्धकम् इदमा गृह्यते ।

भगवतत्त्ववेदनाभावे तन्निष्ठत्ववैधुर्यं फलति, इत्याह -

अत एवेति

॥ २७ ॥