येषां त्वन्तगतं पापं
जनानां पुण्यकर्मणाम् ।
ते द्वन्द्वमोहनिर्मुक्ता
भजन्ते मां दृढव्रताः ॥ २८ ॥
येषां तु पुनः अन्तगतं समाप्तप्रायं क्षीणं पापं जनानां पुण्यकर्मणां पुण्यं कर्म येषां सत्त्वशुद्धिकारणं विद्यते ते पुण्यकर्माणः तेषां पुण्यकर्मणाम् , ते द्वन्द्वमोहनिर्मुक्ताः यथोक्तेन द्वन्द्वमोहेन निर्मुक्ताः भजन्ते मां परमात्मानं दृढव्रताः । ‘एवमेव परमार्थतत्त्वं नान्यथा’ इत्येवं सर्वपरित्यागव्रतेन निश्चितविज्ञानाः दृढव्रताः उच्यन्ते ॥ २८ ॥