श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
येषां त्वन्तगतं पापं
जनानां पुण्यकर्मणाम्
ते द्वन्द्वमोहनिर्मुक्ता
भजन्ते मां दृढव्रताः ॥ २८ ॥
के पुनः अनेन द्वन्द्वमोहेन निर्मुक्ताः सन्तः त्वां विदित्वा यथाशास्त्रमात्मभावेन भजन्ते इत्यपेक्षितमर्थं दर्शितुम् उच्यते —

यदि सर्वाणि भूतानि जन्म प्रतिपद्यमानानि संमूढानि सन्ति भगवत्तत्त्वपरिज्ञानशून्यानि भगवद्भजनपराङ्मुखानि, तर्हि शास्त्रानुरोधेन भगवद्भजनम् उच्यमानम् अधिकार्यभावात् अनर्थकम् आपद्येत, इति शङ्कते -

के पुनरिति ।

अनेकेषु जन्मसु सुकृतवशात् अपाकृतदुरितानां द्वन्द्वप्रयुक्तमोहविरहिणां ब्रह्मचर्यादिनियमवतां भगवद्भजनाधिकारित्वात् न शास्त्रविरोधोऽस्ति, इति परिहरति -

उच्यत इति ।