श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ २९ ॥
जरामरणमोक्षाय जरामरणयोः मोक्षार्थं मां परमेश्वरम् आश्रित्य मत्समाहितचित्ताः सन्तः यतन्ति प्रयतन्ते ये, ते यत् ब्रह्म परं तत् विदुः कृत्स्नं समस्तम् अध्यात्मं प्रत्यगात्मविषयं वस्तु तत् विदुः, कर्म अखिलं समस्तं विदुः ॥ २९ ॥

सम्प्रति सगुणस्य सप्रपञ्चस्य मध्यमानुग्रहार्थं ध्येयत्वम् आह -

मामाश्रित्येति ।

जरादिसंसारनिवृत्त्यर्थं निर्गुणं निष्प्रपञ्चं माम् उत्तमाधिकारिणो जानन्ति इत्युक्तम् ‘मामेव ये प्रपद्यन्ते’ (भ. गी. ७-१४) इत्यादौ, इत्याह -

जरेति ।

मध्यमाधिकारिणः प्रति आह -

मामेति ।

परमेश्वराश्रयणं नाम विषयविमुखत्वेन भगवदेकनिष्ठत्वम् , इत्याह -

मत्समाहितेति ।

प्रयतनं भवनन्निष्ठासिद्ध्यर्थं बहिरङ्गाणां यज्ञादीनाम् , अन्तरङ्गाणाञ्च श्रवणादीनाम् अनुष्ठानम् ।

प्रागुक्तं जगदुपादानं परं ब्रह्म । कथं ब्रह्म विदुः ? इत्यपेक्षायाम् , समस्ताध्यात्मवस्तुत्वेन सकलकर्मत्वेन च तद्विदुः इत्याह -

कृत्स्नमिति

॥ २९ ॥