श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ २९ ॥
ते किमर्थं भजन्ते इत्युच्यते —

यथोक्तानाम् अधिकारिणां भगवद्भजनफलं प्रश्नद्वारा दर्शयति -

ते किमर्थमिति ।

जरामरणादिलक्षणो यो बन्धः तद्विश्लेषार्थं भगवद्भजनम् , इत्यर्थः ।