श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ते ब्रह्म तद्विदुः कृत्स्नम्’ (भ. गी. ७ । २९) इत्यादिना भगवता अर्जुनस्य प्रश्नबीजानि उपदिष्टानिअतः तत्प्रश्नार्थम् अर्जुनः उवाच

सप्तमाध्यायान्ते ‘येषान्त्वन्तगतं पापम् ‘ इत्यादिना येषां ब्रह्मादीनाम् अनुसन्धानम् उक्तम् , यच्च प्रयाणकाले भगवतः स्मरणं दर्शितम् , तदिदं जिज्ञासमानः सन् पृच्छति, इति प्रश्नसमुदायम् अवतारयति -

ते ब्रह्म इति ।

प्रश्नबीजानि - तद्विषयभूतानि ब्रह्मादीनि वस्तूनि, इति यावत् ।

बुभुत्सितविषयप्रतिलम्भानन्तरं तेषां प्रश्नद्वारा निर्णयार्थम् आह -

अत इति ।