तत्र प्रश्नत्रयं निर्णेतुं भगवद्वचनम् उदाहरति -
अक्षरमिति ।
‘किं तत् ब्रह्म’ (भ. गी. ८-१) इति प्रश्नस्य प्रतिवचनम् -
अक्षरं ब्रह्म परममिति ।
तत्र अक्षरशब्दस्य निरुपाधिके परस्मिन् आत्मनि अविनाशित्वव्याप्तिमत्वसम्बन्धात् प्रवृत्तिं व्युत्पादयति -
अक्षरमित्यादिना ।
कथं पुनः अक्षरशब्दस्य यथोक्ते परमात्मनि वृद्धप्रयोगम् अन्तरेण व्युत्पत्त्या प्रवृत्तिः आश्रीयते ? व्युत्पत्तेः अर्थान्तरेऽपि सम्भवात् , इत्याशङ्क्य, द्यावापृथिव्यादिविषयनिरङ्कुशप्रशासनस्य परस्मात् अन्यस्मिन् असम्भवात् तथाविधप्रशासनकर्तृत्वेन श्रुतम् अक्षरं ब्रह्मैव, इत्याह -
एतस्येति ।
‘रूढिर्योगम् अपहरति’ इति न्यायात् ओङ्कारे वर्णसमुदायात्मनि अक्षरशब्दस्य रूढ्या प्रवृत्तिः आश्रयितुम् उचिता, इत्याशङ्क्य, आह -
ओङ्कारस्येति ।
प्रतिवचनोपक्रमे प्रक्रान्तम् अोङ्काराख्यम् अक्षरमेव उत्तरत्र विशेषितं भविष्यति, इत्याशङ्क्य, परमविशेषणविरोधात् न तस्य प्रक्रमः सम्भवति, इत्याह -
परममिति चेति ।
किम् अध्यात्मम् इति प्रश्नस्य, उत्तरं ‘स्वभावोऽध्यात्मम्’ इत्यादि । तद्व्याचष्टे -
तस्यैवेति ।
स्वकीयो भावः - स्वभावः श्रोत्रादिकरणग्रामः, स च आत्मनि देहे, अहंप्रत्ययवेद्यो वर्तते, इति अमुं प्रतिभासं व्यावर्त्य, स्वभावपदं गृह्णाति -
स्वो भाव इति ।
एवं विग्रहपरिग्रहे ‘स्वभावोऽध्यात्मम् उच्यते’ इत्यस्य अयम् अर्थो निष्पन्नो भवति, इति अनुवादपूर्वकं कथयति -
स्वभाव इति ।
तस्यैव परस्य इत्यादिना उक्तं न विस्मर्तव्यम् , इति विशिनष्टि -
परमार्थेति ।
परमेव हि ब्रह्म देहादौ प्रविश्य प्रत्यगात्मभावम् अनुभवति ‘तत्सृष्ट्वा तदेवानुप्राविशत् ‘ (तै.उ. २ - ६ - १) इति श्रुतेः. इत्यर्थः ।
‘किं कर्म’ इति प्रश्नस्य उत्तरम् उपादत्ते -
भूतेति ।
भूतान्येव भावाः, तेषाम् उद्भवः - समुत्पत्तिः, तां करोतीति, व्युत्पत्तिं सिद्धवत्कृत्य, विधान्तरेण व्युत्पादयति -
भूतानामिति ।
भावः - सद्भावः - वस्तुभावः । अत एव भूतवस्तूत्पत्तिकर इति वक्ष्यति ।
वैदिकं कर्म अत्रउक्तविशेषणं कर्मशब्दितम् इति विसर्गशब्दार्थं दर्शयन् विशदयति -
विसर्ग इत्यादिना ।
कथं पुनः यथोक्तस्य यज्ञस्य सर्वेषु भूतेषु सृष्टिस्थितिप्रलयहेतुत्वेन तदुद्भवकरत्वम् ? इत्याशङ्क्य, ‘अग्नौ प्रास्ताहुतिः’ (मनु. ३-७६) इत्यादिस्मृतिम् अनुस्मृत्य, आह -
एतस्माद्धीति
॥ ३ ॥