सम्प्रतिप्रश्नत्रयस्य उत्तरम् आह -
अधिभूतमिति ।
‘अधिभूतं च किं प्रोक्तम् ? ’ (भ. गी. ८-१) इत्यस्य प्रतिवचनम् -
अधिभूतं क्षरो भाव इति ।
तत्र अधिभूतपदम् अनूद्य वाच्यम् अर्थं कथयति -
अधिभूतमित्यादिना ।
तस्य निर्देशम् अन्तरेण निर्ज्ञातुम् अशक्यत्वात् प्रश्नद्वारा तन्निर्दिशति -
कोऽसाविति ।
कार्यमात्रम् अत्र सङ्गृहीतम् , इति वक्तुं उक्तमेव व्यनक्ति -
यत्किञ्चिदिति ।
‘अधिदैवं किम् ? ’ (भ. गी. ८-१) इति प्रश्ने, ‘पुरुषश्च’ इत्यादि प्रतिवचनम् । तत्र पुरुषशब्दम् अनूद्य मुख्यम् अर्थं तस्य उपन्यस्यति -
पुरुष इति ।
तस्यैव सम्भावितम् अर्थान्तरम् आह -
पुरि शयनाद्वेति ।
वैराजं देहम् आसाद्य आदित्यमण्डलादिषु दैवतेषु अन्तरवस्थितो लिङ्गात्मा व्यष्टिकरणानुग्राहकोऽत्र पुरुषशब्दार्थः ।
स च अधिदैवतम् इति स्फुटयति -
आदित्येति ।
‘अधियज्ञः कथम् ? ’ (भ. गी. ८-२) इत्यादिप्रश्नं परिहरन् अधियज्ञशब्दार्थम् आह -
अधियज्ञ इति ।
कथम् उक्तायां देवतायाम् अधियज्ञशब्दः स्यात् , इत्याशङ्क्य, श्रुतिम् अनुसरन् आह -
यज्ञो वा इति ।
परैव देवता अधियज्ञशब्देन उच्यते ।
सा च ब्रह्मणः सकाशात् अत्यन्ताभेदेन प्रतिपत्तव्या, इत्याह -
स हि विष्णुरिति ।
शास्त्रीयव्यवहारभूमिः ‘अत्र’ इत्युक्ता,देहसामानाधिकरण्याद्वा, ‘अत्र’ इत्यस्य व्याख्यानम् -
अस्मिन् इति ।
किम् अधियज्ञो बहिः ? अन्तर्वा देहादौ ? इति सन्देहो माभूत् , इत्याह -
देह इति ।
ननु यज्ञस्यदेहाधिकरणत्वाभावात् कथं तथाविधयज्ञाभिमानिदेवतात्वं भगवता विवक्ष्यते ? तत्र आह -
यज्ञो हीति ।
एतेन तस्य बुद्ध्यादिव्यतिरिक्तत्वम् उक्तम् अवधेयम् । न हि परा देवता दर्शितरीत्या अधियज्ञशब्दिता बुद्ध्यादिषु अन्तर्भावम् अनुभावयितुम् अलम् । देहान् बिभ्रतीति - देहभृतः सर्वे प्राणिनः, तेषामेव वरः - श्रेष्ठः । युक्तं हि भगवता साक्षादेव प्रतिक्षणं संवादं विदधानस्य अर्जुनस्य सर्वेभ्यः श्रैष्ठ्यम्
॥ ४ ॥