यत्तु - ‘प्रयाणकाले च’ (भ. गी. ८-२) इत्यादि - चोदितम् , तत्र आह -
अन्तकाले चेति ।
‘मामेव’ इति अवधारणेेन अध्यात्मादिविशिष्टत्वेन स्मरणं व्यावर्त्यते । विशिष्टस्मरणे हि चित्तविक्षेपात् न प्रधानस्मरणमपि स्यात् । न च मरणकालेकार्यकरणपारवश्यात् भगवदनुस्मरणासिद्धिः, सर्वदैव नैरन्तर्येण आदरधिया भगवति समर्पितचेतसः तत्कालेऽपि कार्यकरणजातम् अगणयतो भगवदनुसन्धानसिद्धेः । शरीरे तस्मिन् अहंममाभिमानाभावात् , इति यावत् ।
प्रयाति इत्यत्रप्रकृतशरीरम् अपादानम् ‘ब्रह्म वेद ब्रह्मैव भवति’ इत्यादि श्रुुतिम् आश्रित्य, आह-
नास्तीति ।
व्यासेध्यं संशयमेव अभिनयति -
याति वेति
॥ ५ ॥