कथं पुनः अन्तकाले परवशस्य नियतविषयस्मृतिः भवितुमुत्सहते, तत्राह -
सदा इति ।
देवादिविशेषः तस्मिन् इति सप्तम्यर्थः । भावः - भावना - वासना, सः भावः भावितः सम्पादितः, येन पुंसा, सः तथाविधः सन् यं यं भावं स्मरति, तं तम् एव देहत्यागादूर्ध्वं गच्छति, इति सम्बन्धः
॥ ६ ॥