श्रोत्रादीनां कुत्र द्वारत्वम् ? तत्र आह -
उपलब्धाविति ।
तेषां संयमनम् - विषयेषु प्रवृत्तानां दोषदर्शनद्वारा तेभ्यो वैमुख्यापादनम् ।
कोऽयं मनसो हृदये निरोधः ? तत्र आह -
निष्प्रचारमिति ।
मनसो विषयाकारवृत्तिं निरुध्य हृदि वशीकृतस्य कायं दर्शयति -
तत्रेति ।
‘ऊर्ध्वम् ‘ इत्यत्रापि हृदयात् इति सम्बध्यते । सर्वाणि उपलब्धिद्वाराणि श्रोत्रादीनि सन्निरुध्य, वायुमपि सर्वतो निगृह्य हृदयम् आनीय,ततो निर्गतया सुषुम्नया कण्ठभ्रूमध्यललाटक्रमेण प्राणं मूर्धनि आधाय योगधारणाम् आरूढोब्रह्म व्याहरन् , मां च तदर्थम् अनुस्मरन् , परमां गतिं याति, इति सम्बन्धः
॥ १२ ॥