एकं च तत् अक्षरं च इति एकाक्षरम् - अोमित्येवंरूपम् , तत्कथंब्रह्मेति विशिष्यते ? तत्र आह -
ब्रह्मण इति ।
‘यः प्रयाति’ (भ. गी. ८-५) इति मरणम् उक्त्वा ‘त्यजन् देहम् ‘ इति ब्रुवता पुनरुक्तिः आश्रिता स्यात् , इत्याशङ्क्य,विशेषणार्थं विवृणोति-
देहेेति ।
एवम् ओङ्कारम् उच्चारयन् अर्थं च अभिध्यायन् ध्याननिष्ठः स पुमान् , इत्यर्थः । परमामिति गतिविशेषणं क्रममुक्तिविवक्षया द्रष्टव्यम्
॥ १३ ॥