श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ओमित्येकाक्षरं ब्रह्म
व्याहरन्मामनुस्मरन्
यः प्रयाति त्यजन्देहं
याति परमां गतिम् ॥ १३ ॥
ओमिति एकाक्षरं ब्रह्म ब्रह्मणः अभिधानभूतम् ओङ्कारं व्याहरन् उच्चारयन् , तदर्थभूतं माम् ईश्वरम् अनुस्मरन् अनुचिन्तयन् यः प्रयाति म्रियते, सः त्यजन् परित्यजन् देहं शरीरम् — ‘त्यजन् देहम्इति प्रयाणविशेषणार्थम् देहत्यागेन प्रयाणम् आत्मनः, स्वरूपनाशेनेत्यर्थःसः एवं याति गच्छति परमां प्रकृष्टां गतिम् ॥ १३ ॥

एकं च तत् अक्षरं च इति एकाक्षरम् - अोमित्येवंरूपम् , तत्कथंब्रह्मेति विशिष्यते ? तत्र आह -

ब्रह्मण इति ।

‘यः प्रयाति’ (भ. गी. ८-५) इति मरणम् उक्त्वा ‘त्यजन् देहम् ‘ इति ब्रुवता पुनरुक्तिः आश्रिता स्यात् , इत्याशङ्क्य,विशेषणार्थं विवृणोति-

देहेेति ।

एवम् ओङ्कारम् उच्चारयन् अर्थं च अभिध्यायन्  ध्याननिष्ठः स पुमान् , इत्यर्थः । परमामिति गतिविशेषणं क्रममुक्तिविवक्षया द्रष्टव्यम्

॥ १३ ॥