अव्यक्तम् अव्याकृतम् इतिशङ्कां वारयति -
अव्यक्तमित्यादिना ।
जातिप्रतियोगिभूता व्यक्तीः व्यावर्तयति -
स्थावरेति ।
असदुत्पत्तिप्रसक्तिं प्रत्यादिशति -
अभिव्यज्यन्त इति ।
पूर्वोक्तम् अव्यक्तसंज्ञकं स्वापावस्थं ब्रह्म प्रजापतिशब्दितम् , तस्मिन्निति यावत्
॥ १८ ॥