श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥
प्रजापतेः अहनि यत् भवति रात्रौ च, तत् उच्यते —

यत् प्रजापतेः अहः, तद् युगसहस्रपरिमितम् , या च तस्य रात्रिः सापि तथा, इति कालविदाम् अभिप्रायम् अनुसृत्य ब्राह्मस्य अहोरात्रस्य कालपरिमाणं दर्शयित्वा तत्रैव विभज्य कार्यं कथयति -

प्रजापतेरिति ।