श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अकृताभ्यागमकृतविप्रणाशदोषपरिहारार्थम् , बन्धमोक्षशास्त्रप्रवृत्तिसाफल्यप्रदर्शनार्थम् अविद्यादिक्लेशमूलकर्माशयवशाच्च अवशः भूतग्रामः भूत्वा भूत्वा प्रलीयते इत्यतः संसारे वैराग्यप्रदर्शनार्थं इदमाह
अकृताभ्यागमकृतविप्रणाशदोषपरिहारार्थम् , बन्धमोक्षशास्त्रप्रवृत्तिसाफल्यप्रदर्शनार्थम् अविद्यादिक्लेशमूलकर्माशयवशाच्च अवशः भूतग्रामः भूत्वा भूत्वा प्रलीयते इत्यतः संसारे वैराग्यप्रदर्शनार्थं इदमाह

ननु - प्रबोधकाले ब्रह्मणः, यो भूतग्रामो भूत्वा, तस्यैव स्वापकाले विलीयते,तस्माद् अन्यो भूयो ब्रह्मणो अहरागमे भूत्वा, पुनः रात्र्यागमे परवशो विनश्यति । तदेवं प्रत्यवान्तरकल्पंभूतग्रामविभागो भवेत् , इत्याशङ्क्य, अनन्तरश्लोकतात्पर्यम् आह -

अकृतेति ।

प्रतिकल्पं प्राणिनिकायस्य भिन्नत्वे सति अकृताभ्यागमादिदोषप्रसङ्गात् तत्परिहारार्थं भूतग्रामस्य प्रतिकल्पम् ऐक्यम् आस्थेयम् , इत्यर्थः ।

यदि स्थावरजङ्गमलक्षणप्राणिनिकायस्य प्रतिकल्पम् अन्यथात्वम् , तदा एकस्य बन्धमोक्षान्वयिनोऽभावात् काण्डद्वयात्मनो बन्धमोक्षार्थस्य शास्त्रस्य प्रवृत्तिः अफला प्रसज्येत । अतः तत्साफल्यार्थमपि प्रतिकल्पं प्राणिवर्गस्य नवीनत्वानुपपत्तिः, इत्याह -

बन्धेति ।

कथं पुनः भूतसमुदायः अस्वतन्त्रः सन् अवशो भूत्वा प्रविलीयते ? तत्र आह -

अविद्यादीति ।

आदिशब्देन अस्मितारागद्वेषाभिनिवेशा गृह्यन्ते । यथोक्तंक्लेशपञ्चकं मूलं प्रतिलभ्य धर्माधर्मात्मककर्मराशिः उद्भवति । तद्वशादेव अस्वतन्त्रो भूतसमुदायो जन्मविनाशौ अनुभवति, इत्यर्थः ।

प्राणिनिकायस्य जन्मनाशाभ्यसोक्तेःअर्थम् आह -

इत्यत इति ।

संसारे विपरिवर्तमानानां प्राणिनाम् अस्वातन्त्र्यात् अवशानामेव जन्ममरणप्रबन्धात् अलम् अनेन संसारेण, इति वैतृष्ण्यं तस्मिन् प्रदर्शनीयम् । तदर्थं च इदं भूतानाम्अहोरात्रम् आवृत्तिवचनम् , इत्यर्थः ।