श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
पुरुषः परः पार्थ भक्त्या लभ्यस्त्वनन्यया
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ २२ ॥
तल्लब्धेः उपायः उच्यते —

ननु अव्यक्तात् अतिरिक्तस्य तद्विलक्षणस्य परमपुरुषस्य प्राप्तौ कश्चित् असाधारणो हेतुः एषितव्यः, यस्मिन् प्रेक्षापूर्वकारी तत्प्रेक्षणा प्रवृत्तो निर्वृणोति, तत्र आह -

तल्लब्धेरिति ।