श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥
प्रकृतानां योगिनां प्रणवावेशितब्रह्मबुद्धीनां कालान्तरमुक्तिभाजां ब्रह्मप्रतिपत्तये उत्तरो मार्गो वक्तव्य इति ‘यत्र काले’ इत्यादि विवक्षितार्थसमर्पणार्थम् उच्यते, आवृत्तिमार्गोपन्यासः इतरमार्गस्तुत्यर्थः —

ननु ज्ञानायत्ता परमपुरुषप्राप्तिः उक्ता । न च ज्ञानं मार्गम् अपेक्ष्य फलाय कल्पते, विदुषो गत्युत्क्रान्तिनिषेधश्रुतेः । तथा च मार्गोक्तिः अयुक्ता, इत्याशङ्क्य, सगुणशरणानां तदुपदेशो अर्थवान् , इत्यभिप्रेत्य आह -

प्रकृतानामिति ।

वक्तव्य इति, यत्र काले इत्याद्युच्यत इति सम्बन्धः ।

स चेद्वक्तव्यः, तर्हि किमिति अध्यात्मादिभावेन सविशेषं ब्रह्म ध्यायतां फलाप्तये मूर्धन्यनाडीसम्बद्धे देवयाने पथि उपास्यत्वाय वक्तव्ये कालो निर्दिश्यते ? तत्र आह -

विवक्षितेति ।

सोऽर्थो मार्गः, तदुक्तिशेषत्वेन कालोक्तिः इत्यर्थः ।

पितृयाणमार्गोपन्यासः तर्हि किमिति क्रियते ? तत्र आह-

आवृत्तीति ।

मार्गान्तरस्य आवृत्तिफलत्वात् , अस्य च अनावृत्तिफलत्वात् तदपेक्षया महीयान् अयम् , इति स्तुतिर्विवक्षिता इति भावः ।