श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥
एते यथोक्ते सृती मार्गौ पार्थ जानन् संसाराय एका, अन्या मोक्षाय इति, योगी मुह्यति कश्चन कश्चिदपितस्मात् सर्वेषु कालेषु योगयुक्तः समाहितो भव अर्जुन ॥ २७ ॥

गतेः उपास्यत्वाय तद्विज्ञानं स्तौति -

नैते इति ।

योगस्य मोहापोहकत्वे फलितम् आह -

तस्मादिति ।

ज्ञानप्रकारम् अनुवदति -

संसारायेति ।

मोक्षाय - क्रममुक्त्यर्थम् इत्यर्थः । योगी ध्याननिष्ठः गतिमपि ध्यायन् नैव मुह्यति, केवलं कर्मं दक्षिणमार्गप्रापकं कर्तव्यत्वेन न प्रत्येति इत्यर्थः ।

योगस्य अपुनरावृत्तिफलत्वे नित्यकतंव्यत्वं सिद्धम् इति उपसंहरति -

तस्मादिति

॥ २७ ॥