श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत्पुण्यफलं प्रदिष्टम्
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥
शृणु तस्य योगस्य माहात्म्यम् —

श्रद्धाविवृद्ध्यर्थं योगं स्तौति -

श्रृण्विति ।

पवित्रपाणित्वप्राङ्मुखत्वादिसाहित्यम् अध्ययनस्य सम्यक्त्वम् । अङ्गोपाङ्गोपेतत्वम् अनुष्ठानस्य साद्गुण्यम् । तपसां सुतप्तत्वं मनोबुद्ध्याद्यैकाग्र्यपूर्वकत्वम् । दानस्य च सम्यकत्वं देशकालपात्रानुगुणत्वम् ।