श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥
ये पुनः —

आत्मज्ञानाख्ये धर्मे श्रद्धावतां तन्निष्ठानां परमपदप्राप्तिमुक्त्वा, ततो विमुखानां संसारप्राप्तिम् आह -

ये पुनरिति ।