सोपाधिकस्य व्याप्त्यसम्भवम् अभिप्रेत्य विशिनष्टि -
ममेति ।
अनवच्छिन्नस्य भगवद्रूपस्य निरुपाधिकत्वमेव साधयति -
करणेति ।
व्याप्यव्यापकत्वेन जगतो भगवतश्च परिच्छेदमाशङ्क्य, आह -
तस्मिन्निति ।
तथापि भगवतो भूतानाञ्च आधाराधेयत्वेन भेदः स्यात् , इत्याशङ्क्य, आह -
नहीति ।
निरात्मकस्य व्यवहारानर्हत्वे फलितमाह -
अत इति ।
ईश्वरस्य भूतात्मत्वे तेषु स्थितिः स्यात् , इत्याशङ्क्य, आह -
तेषामिति ।
तस्य तेषु स्थित्यभावं व्यवस्थापयति -
मूर्तवदिति ।
संश्लेषाभावेऽपि किमिति न आधेयत्वम् , अत आह -
नहीति
॥ ४ ॥