श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मया ततमिदं सर्वं जगतदव्यक्तमूर्तिना
मत्स्थानि सर्वभूतानि चाहं तेष्ववस्थितः ॥ ४ ॥
मया मम यः परो भावः तेन ततं व्याप्तं सर्वम् इदं जगत् अव्यक्तमूर्तिना न व्यक्ता मूर्तिः स्वरूपं यस्य मम सोऽहमव्यक्तमूर्तिः तेन मया अव्यक्तमूर्तिना, करणागोचरस्वरूपेण इत्यर्थः । तस्मिन् मयि अव्यक्तमूर्तौ स्थितानि मत्स्थानि, सर्वभूतानि ब्रह्मादीनि स्तम्बपर्यन्तानि । न हि निरात्मकं किञ्चित् भूतं व्यवहाराय अवकल्पते । अतः मत्स्थानि मया आत्मना आत्मवत्त्वेन स्थितानि, अतः मयि स्थितानि इति उच्यन्ते । तेषां भूतानाम् अहमेव आत्मा इत्यतः तेषु स्थितः इति मूढबुद्धीनां अवभासते ; अतः ब्रवीमि — न च अहं तेषु भूतेषु अवस्थितः, मूर्तवत् संश्लेषाभावेन आकाशस्यापि अन्तरतमो हि अहम् । न हि असंसर्गि वस्तु क्वचित् आधेयभावेन अवस्थितं भवति ॥ ४ ॥

सोपाधिकस्य व्याप्त्यसम्भवम् अभिप्रेत्य विशिनष्टि -

ममेति ।

अनवच्छिन्नस्य भगवद्रूपस्य निरुपाधिकत्वमेव साधयति -

करणेति ।

व्याप्यव्यापकत्वेन जगतो भगवतश्च परिच्छेदमाशङ्क्य, आह -

तस्मिन्निति ।

तथापि भगवतो भूतानाञ्च आधाराधेयत्वेन भेदः स्यात् , इत्याशङ्क्य, आह -

नहीति ।

निरात्मकस्य व्यवहारानर्हत्वे फलितमाह -

अत इति ।

ईश्वरस्य भूतात्मत्वे तेषु स्थितिः स्यात् , इत्याशङ्क्य, आह -

तेषामिति ।

तस्य तेषु स्थित्यभावं व्यवस्थापयति -

मूर्तवदिति ।

संश्लेषाभावेऽपि किमिति न आधेयत्वम् , अत आह -

नहीति

॥ ४ ॥