श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मत्स्थानि भूतानि पश्य मे योगमैश्वरम्
भूतभृन्न भूतस्थो ममात्मा भूतभावनः ॥ ५ ॥
अत एव असंसर्गित्वात् मम —

परमेश्वरस्य भूतेषु स्थित्यभावेऽपि भूतानां तत्र स्थितिः आस्थिता, इति, कुतोऽसङ्गत्वम् ? तत्राह -

अत एवेति ।

‘न च ‘ इत्यत्र चकारः अवधारणार्थः ।