श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान्
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥
यथा लोके आकाशस्थितः आकाशे स्थितः नित्यं सदा वायुः सर्वत्र गच्छतीति सर्वत्रगः महान् परिमाणतः, तथा आकाशवत् सर्वगते मयि असंश्लेषेणैव स्थितानि इत्येवम् उपधारय विजानीहि ॥ ६ ॥

सृष्टिस्थितिसंहाराणां असङ्गात्माधारत्वं ‘मया ततमिदम्‘ (भ. गी. ९-४) इत्यादि श्लोकद्वयेन उक्तोऽर्थः । तं दृष्टान्तेन उपपादयन् आदौ दृष्टान्तमाह, इति योजना । ‘सदा’ इति उत्पत्तिस्थितिसंहारकालो गृह्यते । आकाशादेः महतोऽन्याधारत्वं कथम् ? इत्याशङ्क्य, आह -

महानिति ।

यथा सर्वगामित्वात्  परिमाणतो महान् वायुः आकाशे सदा तिष्ठति, तथा आकाशादीनि महान्त्यपि सर्वाणि भूतानि आकाशकल्पे पूर्णे प्रतीचि असङ्गे परस्मिन् आत्मनि संश्लेषमन्तरेण स्थितानि, इत्यर्थः

॥ ६ ॥