श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ७ ॥
सर्वभूतानि कौन्तेय प्रकृतिं त्रिगुणात्मिकाम् अपरां निकृष्टां यान्ति मामिकां मदीयां कल्पक्षये प्रलयकालेपुनः भूयः तानि भूतानि उत्पत्तिकाले कल्पादौ विसृजामि उत्पादयामि अहं पूर्ववत् ॥ ७ ॥

प्रकृतिशब्दस्य स्वभाववचनत्वं व्यावर्तयति -

त्रिगुणात्मिकामिति ।

सा च अपरेयं, इति प्रागेव सूचिता, इत्याह -

अपरामिति ।

तस्याश्च ईश्वराधीनत्वेन अस्वातन्त्र्यमाह –

मदीयामिति ।

प्रळयकाले भूतानि यथोक्तां प्रकृतिं यान्ति चेत् उत्पत्तिकालेऽपि ततस्तेषाम् उत्पत्तेः ईश्वराधीनत्वं भूतसृष्टेः न स्यात् , इत्याशङ्क्य, आह -

पुनरिति

॥ ७ ॥