श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥
प्रकृतिं स्वां स्वीयाम् अवष्टभ्य वशीकृत्य विसृजामि पुनः पुनः प्रकृतितो जातं भूतग्रामं भूतसमुदायम् इमं वर्तमानं कृत्स्नं समग्रम् अवशम् अस्वतन्त्रम् , अविद्यादिदोषैः परवशीकृतम् , प्रकृतेः वशात् स्वभाववशात् ॥ ८ ॥

भूतसमुदायस्य अविद्यास्मितादिदोषपरवशत्वे हेतुम् आह -

स्वभाववशादिति

॥ ८ ॥