‘तत्र’ इति सप्तम्या परमेश्वरो निरुच्यते । ईश्वरस्य फलासङ्गाभावात् कर्तृत्वाभिमानाभावाच्च कर्यासम्बन्धवत् ईश्वरात् अन्यस्यापि तदुभयाभावः धर्माद्यसम्बन्धे कारणम् , इत्याह-
अतोऽन्यस्येति ।
यदि कर्मसु कर्तृत्वाभिमानो वा कस्यचित् कर्मफलसङ्गो वा स्यात् , तत्राह -
अन्यथेति
॥ ९ ॥