न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥
न च माम् ईश्वरं तानि भूतग्रामस्य विषमसर्गनिमित्तानि कर्माणि निबध्नन्ति धनञ्जय । तत्र कर्मणां असम्बन्धित्वे कारणमाह — उदासीनवत् आसीनं यथा उदासीनः उपेक्षकः कश्चित् तद्वत् आसीनम् , आत्मनः अविक्रियत्वात् , असक्तं फलासङ्गरहितम् , अभिमानवर्जितम् ‘अहं करोमि’ इति तेषु कर्मसु । अतः अन्यस्यापि कर्तृत्वाभिमानाभावः फलासङ्गाभावश्च असम्बन्धकारणम् , अन्यथा कर्मभिः बध्यते मूढः कोशकारवत् इत्यभिप्रायः ॥ ९ ॥