श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मां तानि कर्माणि निबध्नन्ति धनञ्जय
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥
तर्हि तस्य ते परमेश्वरस्य, भूतग्रामम् इमं विषमं विदधतः, तन्निमित्ताभ्यां धर्माधर्माभ्यां सम्बन्धः स्यादिति, इदम् आह भगवान् —

यदि प्रकृतं भूतग्रामं स्वभावात् अविद्यातन्त्रं विषमं विदाधासि, तर्हि तव विषमसृष्टिप्रयुक्तं धर्मादिमत्त्वम् इति अनीश्वरत्वापत्तिः इति शङ्कते -

तर्हिति ।