श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥
मया अध्यक्षेण सर्वतो दृशिमात्रस्वरूपेण अविक्रियात्मना अध्यक्षेण मया, मम माया त्रिगुणात्मिका अविद्यालक्षणा प्रकृतिः सूयते उत्पादयति सचराचरं जगत्तथा मन्त्रवर्णःएको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्माकर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च’ (श्वे. उ. ६ । ११) इतिहेतुना निमित्तेन अनेन अध्यक्षत्वेन कौन्तेय जगत् सचराचरं व्यक्ताव्यक्तात्मकं विपरिवर्तते सर्वावस्थासुदृशिकर्मत्वापत्तिनिमित्ता हि जगतः सर्वा प्रवृत्तिःअहम् इदं भोक्ष्ये, पश्यामि इदम् , शृणोमि इदम् , सुखमनुभवामि, दुःखमनुभवामि, तदर्थमिदं करिष्ये, इदं ज्ञास्यामि, इत्याद्या अवगतिनिष्ठा अवगत्यवसानैयो अस्याध्यक्षः परमे व्योमन्’ (ऋ. १० । १२९ । ७), (तै. ब्रा. २ । ८ । ९) इत्यादयश्च मन्त्राः एतमर्थं दर्शयन्तिततश्च एकस्य देवस्य सर्वाध्यक्षभूतचैतन्यमात्रस्य परमार्थतः सर्वभोगानभिसम्बन्धिनः अन्यस्य चेतनान्तरस्य अभावे भोक्तुः अन्यस्य अभावात्किंनिमित्ता इयं सृष्टिः इत्यत्र प्रश्नप्रतिवचने अनुपपन्ने, को अद्धा वेद इह प्रवोचत्कुत आजाता कुत इयं विसृष्टिः’ (ऋ. १० । १२९ । ६), (तै. ब्रा. २ । ८ । ९) इत्यादिमन्त्रवर्णेभ्यःदर्शितं भगवताअज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः’ (भ. गी. ५ । १५) इति ॥ १० ॥

तृतीयाद्वयं समानाधिकरणम् , इति अभ्युपेत्य व्याचाष्टे -

मयेत्यादिना ।

प्रकृतिशब्दार्थम् आह -

ममेति ।

तस्या अपि ज्ञानत्वं व्यावर्तयति-

त्रिगुणेति ।

पराभिप्रेतं प्रधानं व्युदस्यति -

अविद्येति ।

साक्षित्वे प्रमाणम् आह -

तथा चेति ।

मूर्तित्रयात्मना भेदं वारयति-

एक इति ।

अखण्डं जा़ड्यं प्रत्याह -

देव इति ।

आदित्यवत् ताटस्थ्यं प्रत्यादिशति -

सर्वभूतेष्विति ।

किमिति तर्हि सर्वैः नोपलभ्यते ? तत्र आह -

गूढ इति ।

बुद्ध्यादिवत् परिच्छिन्नत्वं व्यवच्छिनत्ति -

सर्वव्यापीति ।

तर्हि नभोवत् अनात्मत्वम् ? नेत्याह -

सर्वभूतेति ।

तर्हि तत्र तत्र कर्मतत्फलसम्बन्धित्वं स्यात् , तत्र आह -

कर्मेति ।

सर्वाधिष्ठानत्वम् आह -

सर्वेति ।

सर्वेषु भूतेषु सत्तास्फू्र्तिप्रदत्वेन सन्निधिः वासः अत्र उच्यते ।

न केवलं कर्मणामेव अयम् अध्यक्षः अपि तु तद्वतामपि, इत्याह -

साक्षीति ।

दर्शनकर्तृत्वशङ्कां शातयति -

चेतेति ।

अद्वितीयत्वम् - केवलत्वम् ।

धर्माधर्मादिराहित्यम् आह -

निर्गुण इति ।

किं बहुना ? सर्वविशेषशून्य इति चकारार्थः ।

उदासीनस्यापि ईश्वरस्य साक्षित्वमात्रं निमित्तीकृत्य जगदेतत् पौनःपुन्येन सर्गसंहारौ अनुभवति, इत्याह -

हेतुनेति ।

कार्यवत् कारणस्यापि साक्ष्यधीना प्रवृत्तिः, इति वक्तुं व्यक्ताव्यक्तात्मकम्  इत्युक्तम् । ‘सर्वावस्थासु’ इत्यनेन सृष्टिस्थितिसंहारावस्था गृह्यन्ते । तथापि जगतः सर्गादिभ्यो भिन्ना प्रवृत्तिः स्वाभाविकी, न ईश्वरायत्ता, इत्याशङ्क्य, आह   -

दृशीति ।

न हि दृशि व्याप्यत्वं विना जडवर्गस्य कापि प्रवृत्तिः, इति हिशब्दार्थः । तामेव प्रवृत्तिम् उदाहरति -

अहमित्यादिना ।

भोगस्य विषयोपलम्भाभावे असम्भवात् नानाविधां विषयोपलब्धिं दर्शयति -

पश्यामीति ।

भोगफलं इदानीं कथयति -

सुखमिति ।

विहितप्रतिषिद्धाचरणनिमित्तं सुखन्दुःखं च, इत्याह -

तदर्थमिति ।

न च विमर्शपूर्वकं विज्ञानं विना अनुष्ठानम् , इत्याह -

इदमिति ।

इत्याद्या प्रवृत्तिः, इति सम्बन्धः । सा च प्रवृत्तिः सर्वा दृक्कर्मत्वम् उररीकृत्यैव इत्युक्तं निगमयति -

अवगतीति ।

तत्रैव च प्रवृत्तेः अवसानम् , इत्याह -

अवगत्यवसानेति ।

परस्य अध्यक्षत्वमात्रेण जगच्चेष्टा, इत्यत्र प्रमाणमाह -

यो अस्येति ।

अस्य - जगतः, यो अध्यक्षः - निर्विकारः, स परमे - प्रकृष्टे, हार्दे व्योम्नि स्थितः, दुर्विज्ञेय इत्यर्थः ।

ईश्वरस्य साक्षित्वमात्रेण स्रष्टृत्वे स्थिते फलितमाह -

ततश्चेति ।

किं निमित्ता परस्य इयं सृष्टिः ? न तावत् भोगार्था, परस्य परमार्थतो भोगासम्बन्धित्वात् तस्य सर्वसाक्षिभूतचैतन्यमात्रत्वात् । न चान्यो भोक्ता, चेतनान्तराभावात् ईश्वरस्य एकत्वात् अचेतनस्य अभोक्तृत्वात् । न च स्रष्टुः अपवर्गार्था, तद्विरोधित्वात् । नैवं प्रश्नो वा तदनुरूपं प्रतिवचनं वा युक्तम् , परस्य मायानिबन्धने सर्गे तस्य अनवकाशत्वात् , इत्यर्थः ।

परस्य आत्मनः दुर्विज्ञेयत्वे श्रुतिम् उदाहरति -

को अद्धेति ।

तस्मिन् प्रवक्तापि संसारमण्डले नास्ति, इत्याह -

क इहेति ।

जगतः सृष्टिकर्तृत्वेन परस्य ज्ञेयत्वम् आशङ्क्य कूटस्थत्वात् ततो न सृष्टिर्जाता, इत्याह -

कुत इति ।

नहि इयं विविधा सृष्टिः अन्यस्मादपि कस्माच्चित् उपपद्यते, अन्यस्य वस्तुनो अभावात् , इत्याह-

कुत इति ।

कथं तर्हि सृष्टिः ? इत्याशङ्क्य, अज्ञानाधीना, इत्याह -

दर्शितं चेति

॥ १० ॥