श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥
मया अध्यक्षेण सर्वतो दृशिमात्रस्वरूपेण अविक्रियात्मना अध्यक्षेण मया, मम माया त्रिगुणात्मिका अविद्यालक्षणा प्रकृतिः सूयते उत्पादयति सचराचरं जगत् । तथा च मन्त्रवर्णः — ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च’ (श्वे. उ. ६ । ११) इति । हेतुना निमित्तेन अनेन अध्यक्षत्वेन कौन्तेय जगत् सचराचरं व्यक्ताव्यक्तात्मकं विपरिवर्तते सर्वावस्थासु । दृशिकर्मत्वापत्तिनिमित्ता हि जगतः सर्वा प्रवृत्तिः — अहम् इदं भोक्ष्ये, पश्यामि इदम् , शृणोमि इदम् , सुखमनुभवामि, दुःखमनुभवामि, तदर्थमिदं करिष्ये, इदं ज्ञास्यामि, इत्याद्या अवगतिनिष्ठा अवगत्यवसानैव । ‘यो अस्याध्यक्षः परमे व्योमन्’ (ऋ. १० । १२९ । ७), (तै. ब्रा. २ । ८ । ९) इत्यादयश्च मन्त्राः एतमर्थं दर्शयन्ति । ततश्च एकस्य देवस्य सर्वाध्यक्षभूतचैतन्यमात्रस्य परमार्थतः सर्वभोगानभिसम्बन्धिनः अन्यस्य चेतनान्तरस्य अभावे भोक्तुः अन्यस्य अभावात् । किंनिमित्ता इयं सृष्टिः इत्यत्र प्रश्नप्रतिवचने अनुपपन्ने, ‘को अद्धा वेद क इह प्रवोचत् । कुत आजाता कुत इयं विसृष्टिः’ (ऋ. १० । १२९ । ६), (तै. ब्रा. २ । ८ । ९) इत्यादिमन्त्रवर्णेभ्यः । दर्शितं च भगवता — ‘अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः’ (भ. गी. ५ । १५) इति ॥ १० ॥

तृतीयाद्वयं समानाधिकरणम् , इति अभ्युपेत्य व्याचाष्टे -

मयेत्यादिना ।

प्रकृतिशब्दार्थम् आह -

ममेति ।

तस्या अपि ज्ञानत्वं व्यावर्तयति-

त्रिगुणेति ।

पराभिप्रेतं प्रधानं व्युदस्यति -

अविद्येति ।

साक्षित्वे प्रमाणम् आह -

तथा चेति ।

मूर्तित्रयात्मना भेदं वारयति-

एक इति ।

अखण्डं जा़ड्यं प्रत्याह -

देव इति ।

आदित्यवत् ताटस्थ्यं प्रत्यादिशति -

सर्वभूतेष्विति ।

किमिति तर्हि सर्वैः नोपलभ्यते ? तत्र आह -

गूढ इति ।

बुद्ध्यादिवत् परिच्छिन्नत्वं व्यवच्छिनत्ति -

सर्वव्यापीति ।

तर्हि नभोवत् अनात्मत्वम् ? नेत्याह -

सर्वभूतेति ।

तर्हि तत्र तत्र कर्मतत्फलसम्बन्धित्वं स्यात् , तत्र आह -

कर्मेति ।

सर्वाधिष्ठानत्वम् आह -

सर्वेति ।

सर्वेषु भूतेषु सत्तास्फू्र्तिप्रदत्वेन सन्निधिः वासः अत्र उच्यते ।

न केवलं कर्मणामेव अयम् अध्यक्षः अपि तु तद्वतामपि, इत्याह -

साक्षीति ।

दर्शनकर्तृत्वशङ्कां शातयति -

चेतेति ।

अद्वितीयत्वम् - केवलत्वम् ।

धर्माधर्मादिराहित्यम् आह -

निर्गुण इति ।

किं बहुना ? सर्वविशेषशून्य इति चकारार्थः ।

उदासीनस्यापि ईश्वरस्य साक्षित्वमात्रं निमित्तीकृत्य जगदेतत् पौनःपुन्येन सर्गसंहारौ अनुभवति, इत्याह -

हेतुनेति ।

कार्यवत् कारणस्यापि साक्ष्यधीना प्रवृत्तिः, इति वक्तुं व्यक्ताव्यक्तात्मकम्  इत्युक्तम् । ‘सर्वावस्थासु’ इत्यनेन सृष्टिस्थितिसंहारावस्था गृह्यन्ते । तथापि जगतः सर्गादिभ्यो भिन्ना प्रवृत्तिः स्वाभाविकी, न ईश्वरायत्ता, इत्याशङ्क्य, आह   -

दृशीति ।

न हि दृशि व्याप्यत्वं विना जडवर्गस्य कापि प्रवृत्तिः, इति हिशब्दार्थः । तामेव प्रवृत्तिम् उदाहरति -

अहमित्यादिना ।

भोगस्य विषयोपलम्भाभावे असम्भवात् नानाविधां विषयोपलब्धिं दर्शयति -

पश्यामीति ।

भोगफलं इदानीं कथयति -

सुखमिति ।

विहितप्रतिषिद्धाचरणनिमित्तं सुखन्दुःखं च, इत्याह -

तदर्थमिति ।

न च विमर्शपूर्वकं विज्ञानं विना अनुष्ठानम् , इत्याह -

इदमिति ।

इत्याद्या प्रवृत्तिः, इति सम्बन्धः । सा च प्रवृत्तिः सर्वा दृक्कर्मत्वम् उररीकृत्यैव इत्युक्तं निगमयति -

अवगतीति ।

तत्रैव च प्रवृत्तेः अवसानम् , इत्याह -

अवगत्यवसानेति ।

परस्य अध्यक्षत्वमात्रेण जगच्चेष्टा, इत्यत्र प्रमाणमाह -

यो अस्येति ।

अस्य - जगतः, यो अध्यक्षः - निर्विकारः, स परमे - प्रकृष्टे, हार्दे व्योम्नि स्थितः, दुर्विज्ञेय इत्यर्थः ।

ईश्वरस्य साक्षित्वमात्रेण स्रष्टृत्वे स्थिते फलितमाह -

ततश्चेति ।

किं निमित्ता परस्य इयं सृष्टिः ? न तावत् भोगार्था, परस्य परमार्थतो भोगासम्बन्धित्वात् तस्य सर्वसाक्षिभूतचैतन्यमात्रत्वात् । न चान्यो भोक्ता, चेतनान्तराभावात् ईश्वरस्य एकत्वात् अचेतनस्य अभोक्तृत्वात् । न च स्रष्टुः अपवर्गार्था, तद्विरोधित्वात् । नैवं प्रश्नो वा तदनुरूपं प्रतिवचनं वा युक्तम् , परस्य मायानिबन्धने सर्गे तस्य अनवकाशत्वात् , इत्यर्थः ।

परस्य आत्मनः दुर्विज्ञेयत्वे श्रुतिम् उदाहरति -

को अद्धेति ।

तस्मिन् प्रवक्तापि संसारमण्डले नास्ति, इत्याह -

क इहेति ।

जगतः सृष्टिकर्तृत्वेन परस्य ज्ञेयत्वम् आशङ्क्य कूटस्थत्वात् ततो न सृष्टिर्जाता, इत्याह -

कुत इति ।

नहि इयं विविधा सृष्टिः अन्यस्मादपि कस्माच्चित् उपपद्यते, अन्यस्य वस्तुनो अभावात् , इत्याह-

कुत इति ।

कथं तर्हि सृष्टिः ? इत्याशङ्क्य, अज्ञानाधीना, इत्याह -

दर्शितं चेति

॥ १० ॥